Back to Top

Rajalakshmee Sanjay - Ganga Dhyanam Lyrics

श्वेतचम्पकवर्णाभां गंगा पापप्रणाशिनीम् ।
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥ १॥

वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।
शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ २॥

ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।
नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम् ॥ ३॥

बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् ।
सिन्दूरबिन्दुललितां सार्धं चन्दनबिन्दुभिः ॥ ४॥

कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ।
पक्वबिम्बसमानैक चार्वोष्ठपुटमुत्तमम् ॥ ५॥

मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिमनोहराम ।
सुचारुवक्त्रनयनां सकटाक्षमनोरमाम् ॥ ६॥

स्थलपद्माभाप्रजुष्टपादपद्मयुगन्धराम् ।
रत्नाभरणसंयुक्तं कुकुमाक्तं सयावकम् ॥ ७॥

देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ।
सुरसिद्धमुनीन्द्रादिदत्तार्ध्यैस्सयुतं सदा ॥ ८॥

तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ।
मुक्तिप्रदं मुमुक्षूणां कामिनां स्वर्गभोगदम् ॥ ९॥

वरां वरेण्यां वरदां भक्तानुग्रहकातराम् ।
श्री विष्णाःपददात्री च भजे विष्णुपदी सतीम् ॥ १०॥
[ Correct these Lyrics ]

[ Correct these Lyrics ]

We currently do not have these lyrics. If you would like to submit them, please use the form below.

Sanskrit

श्वेतचम्पकवर्णाभां गंगा पापप्रणाशिनीम् ।
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥ १॥

वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।
शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ २॥

ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।
नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम् ॥ ३॥

बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् ।
सिन्दूरबिन्दुललितां सार्धं चन्दनबिन्दुभिः ॥ ४॥

कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ।
पक्वबिम्बसमानैक चार्वोष्ठपुटमुत्तमम् ॥ ५॥

मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिमनोहराम ।
सुचारुवक्त्रनयनां सकटाक्षमनोरमाम् ॥ ६॥

स्थलपद्माभाप्रजुष्टपादपद्मयुगन्धराम् ।
रत्नाभरणसंयुक्तं कुकुमाक्तं सयावकम् ॥ ७॥

देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ।
सुरसिद्धमुनीन्द्रादिदत्तार्ध्यैस्सयुतं सदा ॥ ८॥

तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ।
मुक्तिप्रदं मुमुक्षूणां कामिनां स्वर्गभोगदम् ॥ ९॥

वरां वरेण्यां वरदां भक्तानुग्रहकातराम् ।
श्री विष्णाःपददात्री च भजे विष्णुपदी सतीम् ॥ १०॥
[ Correct these Lyrics ]
Writer: Traditional
Copyright: Lyrics © Phonographic Digital Limited (PDL)

Performed By: Rajalakshmee Sanjay
Language: Sanskrit
Length: 3:16
Written by: Traditional
[Correct Info]
Tags:
No tags yet