दर्शयामास चात्मानं समुद्रस्सरितां पति:
समुद्रवचनाच्चैव नलं सेतुमकारयत्
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे
राम: सीतामनुप्राप्य परां व्रीडामुपागमत्
तामुवाच ततो राम: परुषं जनसंसदि
अमृष्यमाणा सा सीता विवेश ज्वलनं सती
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्
बभौ रामस्सम्प्रहृष्ट: पूजितस्सर्वदैवतै:
कर्मणा तेन महता त्रैलोक्यं सचराचरम्
सदेवर्षिगणं तुष्टं राघवस्य महात्मन:
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्
कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद ह
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्
अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्वृत:
भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रम:
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत्
पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च स:
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा
नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघ:
रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान्
प्रहृष्टमुदितो लोकस्तुष्ट: पुष्टस्सुधार्मिक:
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित: